वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣢रि꣣ वा꣡ज꣢पतिः क꣣वि꣢र꣣ग्नि꣢र्ह꣣व्या꣡न्य꣢क्रमीत् । द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥३०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥३०॥

मन्त्र उच्चारण
पद पाठ

प꣡रि꣢꣯ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । कविः꣢ । अ꣣ग्निः꣢ । ह꣣व्या꣡नि꣢ । अ꣣क्रमीत् । द꣡ध꣢꣯त् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 30 | (कौथोम) 1 » 1 » 3 » 10 | (रानायाणीय) 1 » 3 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

परमेश्वर स्तोता का क्या उपकार करता है, यह कहते हैं।

पदार्थान्वयभाषाः -

प्रथम—परमेश्वर के पक्ष में। (वाजपतिः) आत्मिक बलों का अधीश्वर, (कविः) मेधावी, दूरदर्शी (अग्निः) प्रकाशस्वरूप परमेश्वर (दाशुषे) अपने आत्मा को हवि बनाकर ईश्वरार्पण करनेवाले आत्मदानी स्तोता के लिए (रत्नानि) रमणीय सद्गुणरूप धन (दधत्) प्रदान करता हुआ, उसकी (हव्यानि) आत्मसमर्पणरूप हवियों को (परि अक्रमीत्) सब ओर से प्राप्त करता है अर्थात् स्वीकार करता है ॥ द्वितीय—यज्ञाग्नि के पक्ष में। (वाजपतिः) अन्नों और बलों का प्रदाता तथा पालक, (कविः) गतिमान् (अग्निः) यज्ञाग्नि (दाशुषे) हवि देनेवाले यजमान के लिए (रत्नानि) आरोग्य आदि रूप रमणीय फलों को (दधत्) देता हुआ (हव्यानि) सुगन्धित, मधुर, पुष्टिकर तथा रोगनाशक घृत, केसर, कस्तूरी आदि हवियों को (परि अक्रमीत्) सूक्ष्म करके चारों ओर फैला देता है ॥१०॥ इस मन्त्र में श्लेषालङ्कार है और उपमानोपमेयभाव ध्वनित होता है ॥१०॥

भावार्थभाषाः -

जैसे अन्नों और बलों की उत्पत्ति का निमित्त यज्ञाग्नि हवि देनेवाले यजमान को दीर्घायुष्य, आरोग्य आदि फल प्रदान करता है, वैसे ही उपासनायज्ञ में आत्मसमर्पणरूप हवि देनेवाले स्तोता को परमेश्वर सद्गुण आदि रूप फल देता है ॥१०॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरः स्तोतुः किमुपकरोतीत्याह।

पदार्थान्वयभाषाः -

प्रथमः—परमेश्वरपरः। (वाजपतिः) वाजानाम् आत्मिकबलानां पतिः अधीश्वरः, (कविः) मेधावी, कान्तद्रष्टा। कविरिति मेधाविनाम। निघं० ३।१५। कविः क्रान्तदर्शनो भवति कवतेर्वा इति निरुक्तम् १२।१३। (अग्निः) प्रकाशस्वरूपः परमेश्वरः (दाशुषे) आत्मानं हविः कृत्वा दत्तवते स्तोत्रे। ‘दाश्वान् साह्वान् मीढ्वाँश्च।’ अ० ६।—१।१२ अनेनायं दानार्थाद् दाशतेः क्वसुप्रत्ययान्तो निपातितः। (रत्नानि) रमणीयानि सद्गुणरूपाणि धनानि। रत्नानां रमणीयानां धनानामिति निरुक्तम्। ७।५। (दधत्) धारयन्, प्रयच्छन्, तस्य (हव्यानि) आत्मसमर्पणरूपाणि हवींषि (परि अक्रमीत्) परितः प्राप्नोति, स्वीकरोतीत्यर्थः। क्रमु पादविक्षेपे। छन्दसि लुङ्लङ्लिटः अ० ३।४।६ इति लडर्थे लङ् ॥ अथ द्वितीयः—यज्ञाग्निपरः। (वाजपतिः) अन्नानां बलानां च प्रदाता पालकश्च, (कविः) गतिमान्। पवनाहतः सन् कवते यज्ञवेद्यां ज्वालाभिरितस्ततः संचरतीति कविः। कवते गतिकर्मा। निघं० २।१४। (अग्निः) यज्ञाग्निः (दाशुषे) हविर्दत्तवते यजमानाय (रत्नानि) आरोग्यादिरूपाणि रमणीयानि फलानि (दधत्) प्रयच्छन् सन् (हव्यानि) सुगन्धिमिष्टपुष्टिवर्धकरोगनाशकानि घृतकेसरकस्तूर्यादीनि हवींषि (परि अक्रमीत्२) सूक्ष्मीकृत्य परितो विस्तारयति ॥१०॥३ अत्र श्लेषालङ्कारः, उपमानोपमेयभावश्च गम्यते ॥१०॥

भावार्थभाषाः -

यथाऽन्नानां बलानां चोत्पत्तिनिमित्तं यज्ञाग्निर्हविर्दत्तवते यजमानाय दीर्घायुष्यारोग्यादीनि फलानि प्रयच्छति तथैवोपासनायज्ञे आत्मसमर्पणरूपाणि हवींषि दत्तवते स्तोत्रे परमेश्वरः सद्गुणादिरूपाणि फलानि ददाति ॥१०॥

टिप्पणी: १. ऋ० ४।१५।३, य० ११।२५ ऋषिः सोमकः। २. क्रमिर्गत्यर्थः, शुद्धोऽपि च ण्यर्थे द्रष्टव्यः। परिक्रमितवान् परिगमितवान् नीतवानित्यर्थः—इति वि०। ३. दयानन्दर्षिर्मन्त्रेऽस्मिन् ऋग्भाष्ये दातृपुरुषसाम्येन यजुर्भाष्ये च गृहस्थसाम्येन भौतिकाग्निविषयमाह।